ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

7.157   अजन्मा आत्मा कथम्?

जन्म स्थूलदेहस्य धर्मः। यो नापि सूक्ष्मदेहस्य धर्मो भवति, स कथं आत्मनो धर्मो भवेत्। यदि आत्मनो जन्म अभ्युपगम्यते, आत्मनो मरणमपि अभ्युपेयम्। ततश्च आत्मा अनित्यो भवति। इदं परलोकवादिमतं आस्तिकानां अनिष्टमेव। जन्ममरणयुक्तवस्तुनः प्रागभावः प्रध्वंसाभवोऽपि भवति। जन्मनः पूर्वं आत्मा तत्कर्म च नासीत्। प्रथमजन्मनि सति कर्म विना भोगो भवति। मरणानन्तरं आत्मा न भविष्यति। प्रकृतजन्माचरितकर्मणः भोगं विना नाशो भवति। एवं देवोक्तकर्मो व्यर्थो जायेत्। अतः जन्म नात्मनः धर्म। आत्मा अजन्मा। अनेन व्यपदेशेन आत्मनः अजरामरणत्वं सिद्धम्।