ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

7.155   असङ्गः आत्मा कथम्?

सङ्गो नाम संबन्धः। संबन्धः त्रिविधः – सजातीयसंबन्धः, विजातीयसंबन्धः, स्वगतसंबन्धः। स्वजातीनां संबन्धः सजातीयसंबन्धः यथा ब्राह्मणः ब्राह्मणान्तरात् संबन्धः। स्वेतरजातीयस्य स्वस्मात् संबन्धः विजातीयसंबन्धः यथा ब्राह्मणस्य शूद्रात् संबन्धः। स्वावयवेभ्यः संबन्धः स्वगतसंबन्धः यथा ब्राह्मणस्य स्वहस्तपादमस्तकेभ्यः संबन्धः। आत्मा चेतनः एकः। तस्य जातिः नास्ति। जीवेश्वरब्रह्माविष्णुशिवाः अहं च औपाधिकभेदाः मिथ्याभूताः। अतः आत्मनः केनापि सह सजातीयसंबन्धो नास्ति। अतः आत्मनः केनापि सह सजीतीयसंबन्धो न भवति। आत्मा अद्वैतः सच्च। तद्भिन्ना या माया (अज्ञानं) मायाकार्यस्थूलसूक्ष्मप्रपञ्चः प्रतीयते सा असत्। असच्च अवस्तु। अतः आत्मना केनापि सह विजातीयसंबन्धो नास्ति। आत्मा निरवयवः। अच्चिदानन्दादिकं नात्मनः अवयवभूताः। किन्तु एकरूपत्वात् आत्मनः केनापि सह स्वगतसंबन्धो नास्ति। एवं आत्मा सर्वसंबन्धरहितः असङ्गः।