अत्रावान्तर्भवन्ति षड्विधभेदाः। केवलधर्माध्यासः, धर्मसहितधर्मिनः अध्यासः, अन्यतराधासश्च स्वरूपाध्यासे अन्तर्गताः। केवलसंबन्धाध्यासः संसर्गाध्यासः एव। संबन्धसहितसंबन्धिनः अध्यासः, संसर्गाध्याससहितस्वरूपाध्यासश्च अन्योन्याध्यासेन संसर्गाधासः स्वरूपाधासश्च उभयमपि। आत्मनः स्वरूपं सत्यं, न कदापि अध्यस्तम्। अतः सर्सर्गस्य तादात्म्यसंबन्धस्य वा अनात्मनि अध्यासो भवति। अयं सर्सर्गाध्यासः॥ अनात्मनः स्वरूपं हि आत्मनि अध्यस्यते। अयं स्वरूपाध्यासः॥ अतः अन्योन्याधासः संसर्गाध्यासः, स्वरूपाध्यासश्च॥