9.6:
आगामिकर्मनाशः
किञ्चागामिकर्मणो नलिनीगलगतजलवत् ज्ञानिनां सम्बन्धो नास्ति। किञ्च ये ज्ञानिनं स्तुवन्ति भजन्त्यर्चयन्ति च, तान्प्रति ज्ञानिकृतमागामिपुण्यं गच्छति। ये च ज्ञानिनं निन्दन्ति द्विषन्ति दुःखप्रदानं कुर्वन्ति तान्प्रति ज्ञानिकृतं सर्वमागामिक्रियमाणपदवाच्यं कर्म पापात्मकं गच्छति। तथा च श्रुतिः – सुहृदः पुण्यकृत्यां द्विषन्तः पापकृत्यां गृह्णन्तीति।
destruction of āgāmi karma
The jñānī has no sambandha with āgāmi karma – like a water has no sambandha with a lotus petal. Those who praise and worship the jñānī take on his puṇya. Those who fault and distress the jñānī take on his pāpa. As the śruti teaches – “Friends take the puṇyas, and foes take the pāpas”.