ॐ गुरुपरमात्मने नमः

a few paṅktīs from rāma rāya kavi’s vedānta saṅgraha

दृग्दृश्ययोः लक्षणे

  • स्वप्रकाशत्वे सति स्वेतरसर्वावभासकत्वं दृशो लक्षणम्। ज्ञेयत्वं दृश्यस्य लक्षणम्। (१.१)

अन्तःकरणं, विज्ञानमयकोशः, मनोमयकोशः

  • अन्तर्व्यवहारकरणं अन्तःकरणम्। (१.६)
  • अहंवृत्तिमदन्तःकरणं विज्ञानम्। इदंवृत्तिमदहङ्करणं मनः इति शास्त्रवित्समयः। (२.५)

प्रमाता, प्रमाणम्

  • अहङ्कारनामकाहंवृत्तिमदन्तःकरणतादात्म्याध्यासवत् तत्प्रतिबिम्बितं च चैतन्यं प्रमाता। (३.१)
  • विषयाकारपरिणतान्तःकरणप्रतिफलितं चैतन्यं प्रमाणम्। (३.१)

अर्थाध्यासः, ज्ञानाध्यासः

  • अर्थाध्यासो नाम दोषसंप्रयोगसंस्कारवशात् अतस्मिन् तस्योदयः, यथा शुक्त्यादौ रजतादिः। (३.२)
  • ज्ञानाध्यासो नाम दोषादिवशात् अतस्मिन्नुदिते तद्बुद्धिः, यथा रज्ज्वादौ उदिते सर्पादौ सर्पादिबुद्धिः। (३.२)

परमार्थदशा, व्यवहारदशा

  • जीवस्य व्यवहारदशा परमार्थदशा चेति अस्ति अवस्थाद्वयम्।
  • तत्र परमार्थदशायां ब्रह्मातिरिकं किमपि नास्ति।
  • सुषुप्तिमृतिमूर्च्छादीनां अत्रैव अन्तर्भावः।
  • व्यवहारदशायां सर्वं अस्ति। स्वप्नजागरयोः अत्रैव अन्तर्भावः। (४.२)