suṣupti, samādhi, and prājña
suṣupti
- सुषुप्तौ सूक्ष्मशरीरस्य ज्ञानं न भवति। (आ॰ २८३)
- सुखस्वरूपः आत्मा स्वयंप्रकाशस्वरूपेण प्रतीयते। (आ॰ २८३)
- तच्च सुखं सुषुप्तौ न विषयजन्यं, किन्तु तदात्मस्वरूपसुखमेव (आ॰ २८३)
- यस्यां केवलं सुखं अज्ञानं च अनुभूयते, सा सुषुप्तिः (आ॰ २८३ टिप्पणी)
- सुषुप्त्यनुभवस्य विषयः सुखं अज्ञानं च। (आ॰ ९७)
- सुषुप्तौ ता वृत्तयः (प्रियमोदप्रमोदाः) स्वकारणे अज्ञाने लीयन्ते। (पु॰ २७३)
- सुषुप्तौ प्रलये च सकलपदार्थानां विनैव अधिष्ठानज्ञानं अज्ञाने स्वकारणे लयो भवति। तदा सर्वदृश्यपदार्थलयहेतुः, तत्तद्भोगप्रदकर्मोपरमः। (आ॰ १५५)
- सुषुप्तौ आत्मा स्वयंप्रकाशस्वरूपः एव आस्ते, तथापि आत्मनः स्वरूपप्रकाशः न अज्ञानविरोधी भवति। (आ॰ ९७)
In suṣupti, there is no knowledge of the sūkṣma śarīra. The ātma which is of the nature of sukha, as well as ignorace are ‘experienced’. In this state the priya, moda and pramoda vr̥ttis (ānanda vr̥ttis) rest in their cause – ajñāna.
nirvikalpaka samādhi (nididhyāsana phala bhūta)
- निदिध्यासनफलभूतनिर्विकल्पकसमाधौ तु आतमा अज्ञानकृतावरणरहितः प्रकाशते। (आ॰ २८३)
- कारणशरीररूपाज्ञानमपि तदा न भासति। (आ॰ २८३)
In nididhyāsana, which is a result of nididhyāsana rūpa samādhi, the ātma shines devoid of āvaraṇa. The ajñāna which is the kāraṇa śarīra does not shine.
prājña
- आनन्दभुक् प्राज्ञः (मा.आ.५) यतः अयं प्राज्ञः अविद्यावृतं आनन्दं भुङ्क्ते, ततः आनन्दभुक् इति व्यपदिश्यते। (आ॰ ३०३)
- विश्वतैजसयोरिव प्राज्ञस्यापि भोगे त्रिपुटी वर्ण्यते। (आ॰ ३०३)
The prājña, one experiences ānanda enveloped with avidyā. Just like viśva and taijasa, there are tripuṭīs for the prājña’s bhoga.