ॐ गुरुपरमात्मने नमः

pratyaksha bhasya

The saṁskr̥ta vicāra sāgara elaborately discusses the means of knowledge, and divides it into 3 categories.

  1. pramā for ajñāta sattā (vyāvahārika padārthās) based on external means (top left quadrant)
  2. pramā for jñāta sattā (prātibhāsika) not based on external means (top right quadrant)
  3. other jñāna (all other cognition)

The definition of pratyakṣa

विषयावच्छिन्नचैतन्यस्य वृत्यावच्छिन्नचैतन्याभेदः एव प्रत्यक्षज्ञानलक्षणम्। स च अभेदः क्वचित् इन्द्रियद्वारा भवति, क्वचित् शब्देन भवति। क्वचित् इन्द्रियादिरूपबाह्यनिमित्तं विनैव शरीरान्तर्जायमानवृत्तिद्वारा भवति। तत्रापि प्रत्यक्षज्ञानं इति व्यपदेशो भवति। (आवर्तः २२४)

When the caitanya of the vr̥tti and viṣaya are the same, it is called pratyakṣa jñāna. This could be through indriyas, śabda or without indriyas.

The definition of sākṣi-bhāsya

  • या वृत्तिः इन्द्रियादिबाह्यसाधनाजन्या, तस्या वृत्तेः विषयः साक्षिभास्यः। (आवर्तः २२४)
  • अविद्यावृत्तिद्वारा यद्यत् साक्षी प्रकाशयति, तत्तत् साक्षिभास्यं इत्युच्यते। (आवर्तः १४७)

When a vr̥tti is not born of external means such as the indriyas, it’s viṣaya is called sākṣi-bhāsya. The viṣayas of avidyā-vr̥ttis are also sākṣi-bhāsya.

Quadrant 1: pramātr̥-bhāsya (antaḥkaraṇa-vr̥tti-dvārā)

  • अन्तःकरणवृत्तिरूपं ज्ञानमेव प्रमा इत्युच्यते। (आवर्तः २१०)

General, right knowledge of worldly objects is pramā.

Quadrant 2: sākṣi-bhāsya (antaḥkaraṇa-vr̥tti-dvārā)

  • यद्यपि अन्तःकरणधर्माः सुखदुःखादयः साक्षिभास्याः, तथापि सुखाकारदुःखाकार-अन्तःकरणवृत्तिद्वारा एव साक्षी सुखदुःखादीन् प्रकाशयति। (आवर्तः २२४)
  • साक्षी बाह्यसाधनापेक्षां विनैव “अहं ब्रह्मास्मि” इति वृत्तिरूपं तत्त्वज्ञानं प्रकाशयति। अतः एव तत्त्वज्ञानं (ब्रह्मज्ञानं) साक्षिभास्यम् (आवर्तः २२५)

Quadrant 3: sākṣi-bhāsya (avidyā-vr̥tti-dvārā)

  • बाह्यरज्जुसर्पादयः, आन्तरस्वाप्निकपदार्थाश्च साक्षिभास्याः। (आवर्तः १४७)
  • साक्षिभास्यपदार्थमपि साक्षी वृत्तिमपेक्ष्यैव प्रकाशयति। तथाहि, शुक्तिरजतं साक्षिभास्यमेव। (आवर्तः २२४)
  • भ्रान्तिज्ञानसंशयज्ञाने च साक्ष्याश्रिते इत्यङ्गीकृतम्। अतः एव स्मृतिः भ्रान्तिः संशयश्च एतत् त्रयमपि चिदाभाससहित-अविद्यायाः वृत्तिरूपं, नान्तःकरणस्य वृत्तिरूपम्। ततश्च तत् त्रयमपि न प्रमात्राश्रयं, किन्तु साक्ष्याश्रयम्। (आवर्तः २१०)
  • विचार्यमाणे तु स्मृतिज्ञानमपि अविद्यावृत्तिरूपं साक्ष्याश्रयं च, न प्रमा। (आवर्तः २११)
  • साक्षिचैतन्यं चित्तस्य अधिदैवम्। अतः एव केचन आचार्याः चिन्तनरूपं स्मृतिज्ञानं साक्ष्याश्रितं आहुः। (आवर्तः २९९)

Rajju-sarpa, śukti-rajata, svāpnika and smr̥ti viṣayas are all sākṣi-bhāśya, through avidyā-vr̥ttis.

dr̥ṣṭi-sr̥ṣṭi

साक्षात् अविद्याकार्यत्वेन प्रातिभासिकत्वात् अविद्यावृत्त्युपहितसाक्षिणा एव सर्वेऽपि पदार्थाः प्रकाश्यन्ति (आवर्तः ३४१)

The descriptions above are based on the sr̥ṣṭi-dr̥ṣṭi-vāda where vyāvahārika and prātibhāsika sattā are different. The former is ajñāta-sattā, and the later is jñāta-sattā. In the dr̥ṣṭi-sr̥ṣṭi vāda, prapañca is jīva-sr̥ṣṭa and is prātibhāsika. Thus, in this vāda, ghaṭa-paṭādayaḥ are also sākṣi-bhāsya.