On karma, karma phala & prāyaścitta
किं कर्म, किं न कर्म (आ॰ ७४)
- प्रवृत्तिनिवृत्यर्थं वेदोक्ताः एव क्रियाः कर्माणि
- न तु उदासीनक्रियाः सर्वा अपि
- स्वभावसिद्धरागद्वेषादिवशात् अनुष्ठीयमानास्तु चेष्टारूपाः क्रियाः न कर्माणि
- Only the actions said by the vedas [and smr̥tis] to impel or restrict our actions are karmas.
- Actions inherent to living beings, such as going, coming etc which are (i) common to all living things and (ii) which are done even with rāga or dveṣa are not karmas
- Actions inherent to living beings, which are done with rāga, dveṣa etc are not karmas
कर्म फलं प्रयच्छति (आ॰१०३)
- ज्ञानाभावे फलं अदत्वा नैव कर्म क्षीयते
A karma cannot perish without giving results, in the absence of brahma jñāna.
शरीरस्य हेतुः (आ॰ २२०)
- यच्छरीरं यस्य सुखदुःखादेः हेतुः भवति, तच्छरीरं तदीयपुण्यपापजन्यं इति न्यायः
- जीवेन पूर्वशरीरे कृतपुण्यपापयोः फलं उत्तरशरीरे तस्यैव जीवस्य सुखदुःखादिरूपं भवति। तस्मात् शरीराभिमानवतः जीवस्य पूर्वजन्मनि स्वेन एव कृतपुण्यपापयोः अधीनं उत्तरशरीरम्।
- A given body (śarīra) is born of the puṇyas and pāpas of those, for whom it becomes a source of their joys and sorrows.
- A jīva that performs puṇya and pāpa in a previous body gets it’s results in the next body and experiences them in the form of joys and sorrows. Thus, for those that identify with the body, the body is subservient upon the puṇyas and pāpas from previous janmas.
अनेकारम्भकं कर्म (आ॰ ४६६)
- एकशरीरारम्भकं एकं कर्म
- अनेकशरीरारम्भकं एकं कर्म इति
The results of some karmas can be exhausted in a single body. Some require multiple bodies (births)
प्रायश्चित्तं कर्म (आ॰ ७७)
- इह जन्मनि बुद्धिपूर्वकृतपापपरिहाराय शास्त्रोक्त-असाधारणप्रायश्चित्तं कार्यम्
- इह जन्मनि जन्मान्तरे वा अनुष्ठितस्य अज्ञातस्य सर्वस्य पापस्य परिहारार्थं शास्त्रविहित-साधारण-प्रायश्चित्तं अनुष्ठेयम्
- यः प्रमामात् पापं कर्म कदाचित् सकृत् प्रसङ्गात् समाचरेत्, तद्दोषपरिहाराय तदुक्तं प्रायश्चित्तं तेन अनुष्ठेयम्
- Specific prāyaścitta karmas must be done to remove the pāpa of karmas done intentionally.
- General prāyaścitta karmas must be done to remove the pāpas of karmas done unintentionally in this janma, or in previous janmas.
- The specific prāyaścittas are for pāpas done just once, out of inattention or negligence.