ॐ गुरुपरमात्मने नमः

ānanda

The topic of how we experience ānanda comes up in a few different sections of the saṁskr̥ta vicāra sāgara (āvartas 130, 290, 373 and 374).

viṣayānanda

This section describes how we experience ānanda when we achieve a laukika desire.

चञ्चलायां बुद्धौ आत्मस्वरूपानन्दप्रतिबिम्बो न भासते। अभिलषितविषयलाभे तु क्षणमात्रं बुद्धिः स्थिरीभवति। तदा बुद्धिवृत्तिः अन्तर्मुखा भवति। तस्यां अन्तर्मुखायां वृत्तौ आत्मस्वरूपानन्दः प्रतिफलति। तादृशात्मस्वरूपानन्दप्रतिबिम्बं अनुभवितुः पुंसः “विषयेभ्यो ममानन्दोऽजायत” इति भ्रान्तिः उत्पद्यते॥ (आवर्तः १३०)

With an agitated mind, the reflected ātmānanda does not shine. But, when we achieve a desired object, the mind gets still for a moment. At that time, an inward facing vr̥tti arises. The ātmānanda reflects on that internal vr̥tti. But we experience it and mistakenly say “From the object, ānanda arose”.

दुःखात्मकविषयानुभवकालीनसुखस्य वस्तुतः आत्मस्वरूपसुखत्वेऽपि, विषयनिष्ठतया तज्जन्यत्वेन च तत्सुखस्य भानं भ्रमात् भवति। यथा शुनः शुष्कास्थिखादनकाले स्वतालुजन्यरक्ते अस्थिजन्यत्वभ्रमः, तद्वत्। (आवर्तः १३०)

Even through the external viṣayās are dukhātmaka, and the sukha we experience belongs to the ātma, we mistakenly think it the sukha comes from the object. It is similar to a dog that chews a dry bone, and mistakes blood from it’s own wounded mouth to be blood from the bone.

mukhaa vikāsa

This section describes how a jijñāsu does not experience ānanda.

शिष्यस्य अविद्यातत्कार्यनिवृत्तिपूर्वकपरमानन्दरूपमोक्षो ज्ञानद्वारा प्राप्तुं इष्टः। अभिलषितार्थसिद्ध्यभावाच्च शिष्यस्य इच्छारूपचित्तवृत्तिविनाशो नाभवत्। इच्छारूपवृत्तिनिवृत्त्यात्मकनिमित्ताभावात् अन्तर्मुखवृत्त्युदयः, तस्मिन् स्वरूपानन्दप्रतिबिम्बोदयः, तद्नुभवजन्यमुखविकासश्च न शिष्यस्य अभवत्। तेन मुखविकासाभावेन शिष्यस्य अकृतार्थता अनुमिता अभूत्। (आवर्तः २९०, तिप्पणी १)

A śiṣya wanted to achieve mokṣa through jñāna. Since the desire remained unfulfilled, the desire-vr̥tti had not perished. As a result, the inward facing vr̥tti, the ātmānanda reflected on it, and the resulting happiness in the face did not take place. Thus, the guru ascertained that the śiṣya had not achieved mokṣa.

svarupānanda

इत्थं विषयसंबन्धात् आत्मस्वरूपानन्दस्य भानं भवति। आत्मा आनन्दरूपो यदि न स्यात् तदा विषयसंबन्धात् आनन्दस्य भानं नोपपद्यते। तस्मात् आत्मा आनन्दरूपोऽस्ति। (आवर्तः ३७४)

Through association with the viṣaya, the reflected ātmānanda takes place. If the ātma itself wasn’t of the nature of ānanda, viṣaya sambandha would not result in the reflected consciousness. Thus, ātma is of the nature of ānanda.