an introduction to śāstra (based on the prasthāna bheda)
The prasthāna bheda is a text by madhusūdana sarasvatī which introduces the contents of śāstra, from the lens of vedānta. Some portions of the first chapter are given below.
अथ सर्वेषां शास्त्राणां भगवत्येव तात्पर्यं, साक्षात् परम्परया वा इति समासेन तेषां प्रस्थानभेदः अत्र उद्दिश्यते। तथा हि –
ऋग्वेदो यजुर्वेदः सामवेदः अथर्ववेदः इति वेदाश्चत्वारः। शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषं इति वेदाङ्गानि षट्। पुराणन्यायमीमांसा धर्मशास्त्राणि चेति चत्वारि उपाङ्गानि। अत्र उपपुराणानामपि पुराणे अन्तर्भावः। वैशेषिकशास्त्रस्य न्याये वेदान्तशास्त्रस्य मीमांसायाम्। महाभारतरामायणयोः साङ्ख्यपातञ्चजपाशुपतवैष्णवादीनां च धर्मशास्त्रे। मिलित्वा चतुर्दश विद्याः।
तथा चोक्तं जाज्ञवक्ल्येन (१.३) –
पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश॥ इति
एताः एव चतुर्भिः उपवेदैः सहिताः अष्टादशविद्याः भवन्ति। आयुर्वेदो धनुर्वेदः गान्धर्ववेदः अर्थशास्त्रं चेति चत्वारः उपवेदाः। सर्वेषां च आस्तिकानां एतावन्त्येव शास्त्रप्रस्थानानि। अन्येषां अप्येकदेशिनां एतेषु एव अतर्भावात्।
All śāstras have bhagavān alone as their import – either directly or indirectly. Thus they are described briefly here.
The four vedas are r̥k, yajus, sāma and atharva. The six vedāṅgas are śikṣā, kalpa, vyākaraṇa, nirukta, chanda and jyotiṣa. The four upāṅgas are purāṇa, nyāya, mīmāmsā and dharma śāstra.
The upapurāṇas are included in the purāṇas. Vaiśeṣika śāstra is included in nyāya. Vedānta śāstra is included in mīmāmsā. The mahābhārata and rāmāyaṇa, as well as sāṁkhya, pātaṅjala, pāśupata, vaiṣṇava and others are included in dharma śāstra. Thus, there’s a total of 14 vidyās.
As yājñavaklya has said – “The fourteen places of vidyā and dharma are purāṇa, nyāya, mīmāmsā, dharmaśāstra, (6) vedāṅgas and (4) vedās.”
If the upavedas are included, it comes to a total of eighteen. The four upavedas are āyurveda, dhanurveda, gāndharvaveda and arthaśāstra. For all āstikas, these alone are the various śāstras. Others can be included in these categories.