॥ॐ गुरुपरमात्मने नमः॥

पामरादयः (pāmarādi)

पामरः, विषयी, जिज्ञासुः, मुक्तश्चेति इति चतुर्धा पुरुषाः सुखासक्त्या ।

  1. विहितप्रतिषिद्धेषु ऐहिकविषयभोगेषु आसक्तः सास्त्रीयसंस्कारशून्याः पामराः।
  2. शास्त्रानुसारिविषयभोगान् भुञ्जानः सन् इहामुत्रार्थफलभोगावाप्तये कर्म कुर्वाणो विषयी।
  3. शास्त्रीयोत्तमसंस्कारबलात् अध्यात्मसच्छास्त्रश्रवणं कृत्वा विवेको यस्य भवति, सः मुमुक्षुः जिज्ञासुः।
  4. स्वस्वरूपं ब्रह्मरूपेण यः अपरोक्षीकरोति सः मुक्तः।
pāmarādi

People who are attached to joy are four-fold.

  1. Pāmaras are whose who engage in prohibited actions and are not cultured through śāstra.
  2. Viṣayis live in accordance with the śāstras, enjoying what is allowed here, and try to obtain good results here and in the future.
  3. Jijñāsus are cultured by śāstra saṁskāra, and have viveka from listening to adhyātma śāstras.
  4. Muktas are whose who have aparokṣa jñāna of their svarūpa.