॥ॐ गुरुपरमात्मने नमः॥

अहङ्कारः

शुद्धाशुद्धभेदात्

  • शुद्धाहङ्कारः – स्वस्वरूपस्य अहङ्कारः।
  • अशुद्धाहङ्कारः – देहाद्यनात्मनः अहङ्कारः।

सामान्यविशेषभेदात्

  • सामान्याहङ्कारः – देहादिधर्मोद्देशरहितः, केवलं “अहं” इति स्फुरणम्।
  • विशेषाहङ्कारः – देहादिधर्माः नामजात्यादयः, तदुद्दिश्य “अहं” इति स्फुरणम्।

मुख्यामुख्यभेदात्

  • मुख्याहङ्कारः – देहादियुक्तचिदाभासस्य कूटस्थसाक्षिणश्च ऐक्यं कृत्वा मोहेन सङ्घाते “अहं”शब्दं संकलय्य अहं इति स्फुरणं मुख्यः अहङ्कारः। तदेव शक्तिवृत्त्या अहंशब्दार्थस्य विषयः।
  • अमुख्याहङ्कारः – विवेकेन व्यवहारकाले केवलदेहादियुक्तचिदाभासे, परमार्थदशायां केवलकूटस्थे “अहं”शब्दं संकलय्य अहं इति स्फुरणेन द्विमुखः अमुख्याहङ्कारः। तदेव लक्षणावृत्त्या अहंशब्दार्थस्य विषयः।