॥ॐ गुरुपरमात्मने नमः॥

अध्यासः

अध्यासः द्विविधः – (अर्थाध्यासः) भ्रान्तिज्ञानविषयस्य, (ज्ञानाध्यासः) भ्रान्तिज्ञानस्य च।

  • अर्थाध्यासः – भ्रान्तिज्ञानविषयीभूतमिथ्यावस्तु, यथा सर्पादयः देहादिप्रपञ्चो वा।
  • ज्ञानाध्यासः – मिथ्यावस्तुविषयकभ्रान्तिज्ञानं, यथा सर्पादिज्ञानं देहादिप्रपञ्चज्ञानं वा।